वांछित मन्त्र चुनें

प्रावी॑विपद्वा॒च ऊ॒र्मिं न सिन्धु॒र्गिर॒: सोम॒: पव॑मानो मनी॒षाः । अ॒न्तः पश्य॑न्वृ॒जने॒माव॑रा॒ण्या ति॑ष्ठति वृष॒भो गोषु॑ जा॒नन् ॥

अंग्रेज़ी लिप्यंतरण

prāvīvipad vāca ūrmiṁ na sindhur giraḥ somaḥ pavamāno manīṣāḥ | antaḥ paśyan vṛjanemāvarāṇy ā tiṣṭhati vṛṣabho goṣu jānan ||

पद पाठ

प्र । अ॒वी॒वि॒प॒त् । वा॒चः । ऊ॒र्मिम् । न । सिन्धुः॑ । गिरः॑ । सोमः॑ । पव॑मानः । म॒नी॒षाः । अ॒न्तरिति॑ । पश्य॑न् । वृ॒जना॑ । इ॒मा । अव॑राणि । आ । ति॒ष्ठ॒ति॒ । वृ॒ष॒भः । गोषु॑ । जा॒नन् ॥ ९.९६.७

ऋग्वेद » मण्डल:9» सूक्त:96» मन्त्र:7 | अष्टक:7» अध्याय:4» वर्ग:7» मन्त्र:2 | मण्डल:9» अनुवाक:5» मन्त्र:7


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - वह परमात्मा (वाज ऊर्मिम्) वाणी की लहरों को (सिन्धुर्न) जैसे कि सिन्धु (प्रावीविपत्) कम्पाता है, इसी प्रकार से कम्पाता है। (सोमः) वह सोमरूप परमात्मा (पवमानः) सबको पवित्र करता है। (मनीषाः) मन का भी प्रेरक है। (अन्तः पश्यन्) सबका अन्तर्यामी होकर (वृजना) इस संसाररूपी यज्ञ में (इमा अवराणि आतिष्ठति) इन प्रकृति के कार्य्यों को आश्रयण करता है। जिस प्रकार (वृषभः) सब बल को देने वाला जीवात्मा (जानन्) चेतनरूप से अधिष्ठाता बनकर (गोषु) इन्द्रियों में विराजमान होता है ॥७॥
भावार्थभाषाः - परमात्मा सबका अन्तर्यामी है। वह सर्वान्तर्यामी होकर सर्वप्रेरक है, “यः पृथिव्यां तिष्ठन् पृथिव्यामन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः” इत्यादि वाक्य उक्त वेद के आधार पर निर्माण किये गये हैं ॥७॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - स परमात्मा (वाचः, ऊर्मिं) वाण्या तरङ्गान् (सिन्धुः, न) यथा सिन्धुः स्ववीचीः तथा (प्र अवीविपत्) कम्पयति (सोमः) स एव (पवमानः) सर्वपावकः (मनीषाः) मनसोऽपि प्रेरकः (अन्तः, पश्यन्) सर्वान्तर्यामी भवान् (वृजना) अस्मिन् संसाररूपयज्ञे (इमा, अवराणि, आ, तिष्ठति) इमानि प्रकृतिकार्याणि आश्रयते यथा (वृषभः) सर्वबलप्रदः जीवात्मा (जानन्) चेतनरूपेण अधिष्ठातृत्वं सम्पाद्य (गोषु) इन्द्रियेषु विराजते ॥७॥